Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

६ दिवसीये अमेरिकाभ्रमणे गतः काङ्ग्रेसनेता राहुलगान्धी मंगलवासरे सैन्फ्रांसिस्कोनगरे भारतीयानां मध्ये भाषणं कृतवान्। अस्मिन् काले केचन खालिस्तान-समर्थकाः भारत-काङ्ग्रेस-इन्दिरागान्धि-विरुद्धानि वाक्यानि उद्घोषयित्वा खलिस्तान-ध्वजान् दर्शितवन्तः। राहुलस्य भाषणं बहुकालं यावत् स्थगितव्यम् आसीत् । पश्चात् एते खालिस्तानसमर्थकाः आरक्षकै: बहिः क्षिप्ताः ।

राहुलः भाषणे प्रधानमन्त्री नरेन्द्रमोदी, भाजपा, आरएसएस च चेत्येतेषां विरुद्धं उक्तवान्- मोदी ईश्वरम् अपि जगत् चालयितुं शिक्षयिष्यति, ईश्वरः अपि स्तब्धः भविष्यति यत् मया कस्य रचना कृता!

खालिस्तानसमर्थकस्य प्रतिबन्धितस्य च संघटनस्य सिक्ख्स् फ़ॉर् जस्टिस (SFJ) इत्यस्य प्रमुखः गुरपवन्तसिंह पन्नुः राहुलस्य कार्यक्रमे कोलाहलस्य उत्तरदायित्वं स्वीकृतवान्। पन्नूः सामाजिकमाध्यमेषु उक्तवान् – राहुलगान्धी यत्र यत्र गमिष्यति तत्र तस्य विरोधः एवं भविष्यति। 22 जून दिनाङ्के व्हाइट हाउसम् आगच्छत: प्रधानमन्त्रिणः नरेन्द्रमोदिनः अपि विरोध: भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्