Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

कोंग्रेसपक्षद्वारा ’भारत जोडो न्याय यात्रा -२’ प्रचलति। एतस्या: यात्राया: नेतृत्वं राहुलगान्धी करोति। अद्यत्वे यात्रा मध्यप्रदेशे लोकसंग्रहं कुर्वती अस्ति परन्तु दलस्य कृते सर्वत: दु:खदायिन्य: वार्ता: प्राप्यन्ते प्रतिदिनम्। राजसभानिर्वाचने नैके सदस्या: दलविरुद्धं मतदानं कृतवन्त: । हिमाचल-राजस्थान-उत्तरप्रदेशराज्यानां नैके कार्यकर्तार: पक्षं त्यजन्त: सन्ति। अद्य अपि गुजराते त्रय: प्रमुखा: नेतार: धर्मेशपटेल:, अंबरीशडेर:, अर्जुनमोढवाडिया च त्यागपत्रं दत्तवन्त:। शीघ्रमेव ते भारतीयजनतादले सम्मिलिता: भविष्यन्ति इति श्रूयते। राममन्दिरस्य प्राणप्रतिष्ठामहोत्सवस्य बहिष्कार: कोंग्रेसत्यागस्य कारणम् अस्ति इति। अपि च पुरातनकार्यकर्तॄणाम् अवगणना अपि अत्र कारणभूतमस्ति। लोकसभानिर्वाचने अयं कोंग्रेसत्यागप्रवाह: नितरां विपरितप्रभावं जनयिष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्