Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

सहारा समूहस्य संस्थापकस्य सुब्रत रॉयस्य अद्य मुम्बईनगरे निधनं जातम्। सः चिरकालात् रुग्णः आसीत्, मुम्बईनगरस्य निजचिकित्सालये चिकित्सा जायमाना आसीत्। श्वः तस्य पार्थिवशरीर लखनऊनगरं आनीष्यते। तस्य जन्म १९४८ तमे वर्षे जूनमासस्य १० दिनाङ्के बिहारस्य अररियानगरे अभवत्। कोलकाता-नगरस्य होली-चाइल्ड्-विद्यालयात् प्राथमिकशिक्षां प्राप्तवान् ततः परं गोरखपुरे स: मिकेनिकल अभियान्त्रिकीं अधीतवान्। सहारासमूहस्य अध्यक्षपदग्रहणात् पूर्वं सः स्थावरजङ्गमक्षेत्रे दीर्घकालं व्यतीतवान्। भारतस्य १० शक्तिमत्सु जनेषु स: अन्यतमः आसीत्।

अद्यतनवार्ता

भारतम्

विश्वम्