Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रमुखस्वामिमहाराजस्य जन्मशताब्दी-अवसरे नरेन्द्रमोदिनः संस्मरणानि। "तस्य करुणापूर्णे नेत्रे, शिशुसहजहास्यं, सदैव शोभायमान-मुखारविन्दं, तपोबलसिद्ध-सहज-भाषा....। स्वामिनारायणमहाराजस्य द्विशताब्दीमहोत्सवे यदाहम् प्रच्छन्नसामाजिककार्यकर्ता आसम् तदा प्रमुखस्वामिना उक्तं आसीत् यदस्माकं समग्रजीवनस्य अन्तिमोद्देश्यं नि:स्वार्थसेवा अस्ति। अस्माभिः जीवनस्य अन्तिमश्वासपर्यन्तं सेवा करणीया इत्येतत् वचनं मम मनसि दृढीभूतम्। आध्यामिकतया सह आपदि अपि महाराजस्य सेवाकार्यम् अद्वितीयम् एव यथा कच्छभूकम्पः। प्रमुखस्वामिमहाराजस्य जन्मशताब्दी मानवमात्रं प्रति तस्य कर्माणि भावपूर्वकं स्मर्तुम् अवसर:। एतस्य प्रसङ्गस्य साक्षिरूपेभ्यः सन्तेभ्यः हरिभक्तेभ्यश्च जयस्वामिनारायणम्।

अद्यतनवार्ता

भारतम्

विश्वम्