Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

आतङ्कवादप्रवृत्तिभ्यः धनस्य उपलब्धतायाः समस्याया: निराकरणाय भारतं तृतीयं मन्त्रिस्तरीयं सम्मेलनं आयोजयति। सम्मेलनमिदं अस्य मासस्य अष्टादशदिनाङ्के नवदेहल्यां आयोजयिष्यते। द्विदिनात्मकस्य एतस्य सम्मेलनस्य उद्देश्यं उक्तसमस्यायाः निराकरणाय अन्ताराष्ट्रियस्तरे विधीयमानपदक्रमाणां समीक्षणम् अस्ति। एतत् ज्ञातव्यं यत् इतः पूर्वं पेरिस-मेलबर्न देशयोः एतत् सम्मेलनम् आयोजितम् आसीत्। पञ्चसप्तति-देशानां अन्तराष्ट्रिय-निकायानां प्रतिनिधिभिः सम्भूय विचार-विमर्शस्य आदानप्रदानाय इदं सम्मेलनम् आयोज्यते। गृहमन्त्री सम्मेलने सम्मिलिष्यति। सः आतङ्कवादस्य विरोधे युद्धे भारतस्य प्रतिबद्धतां स्पष्टं करिष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्