Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

बोलीवुड-नायकस्य शाहरुखखानस्य सीमाशुल्कविभागद्वारा पृच्छा जाता। शाहरुखखानः स्वस्य वैयक्तिकविमानेन शुक्रवासरे दुबईतः भारतमागतवान् तदा एकघण्टा यावत् तेन आनीतानि वस्तूनि लक्ष्यीकृत्य पृच्छा अभवत्। तस्य समीपे अष्टादश लक्ष-राशेः महार्घाः घट्यः आसन्। तन्निमित्तं तेन 6.83 लक्षरूप्यकाणां सीमाशुल्कं पूरणीयम् अभवत्। एतदर्थं अधिवक्ता केसवानी अकथयत् यत् एतस्य पृष्ठे शाहरुखखानस्य किं चिन्तनमासीत् तत्कथयितुं कठिनम् अस्ति परन्तु घटनानुसारं सः सीमाशुल्कं अदत्वा एव गन्तुम् इच्छति स्म इति कथयितुं शक्यते।

अद्यतनवार्ता

भारतम्

विश्वम्