Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पश्चिमबङ्गराज्ये संदेशखालीहिंसायाः मुख्याभियुक्तः टीएमसी-नेता शाहजहानशेखः अद्य गृहीतः। कोलकाता-उच्चन्यायालयस्य आदेशेन बङ्गपुलिसदलेन सः सरबेरियाक्षेत्रात् गृहीतः। शाहजहानशेखः टीएमसीदलस्य प्रभावशाली नेता अस्ति। शाहजहानशेखः प्रथमवारं तदा प्रकाशे आगतः यदा बङ्गाल-राशनवितरणघोटालेप्रकरणे प्रश्नोत्तराय आगते ईडी-दले आक्रमणं कृत्वा पलायित:। तदनन्तरं तत्रत्याः महिलाः शाहजहानशेखस्य उपरि भूमिहरणस्य, तस्य सहयोगिभि: यौन-उत्पीडनस्य आरोपं कृतवन्तः। ममतासर्वकारस्य प्रभावात् इदानीं यावत् स: गृहीत: नासीत् परन्तु यदा कोलकाता-उच्चन्यायालयेन तस्य ग्रहणस्य आदेशः दत्तः तदा पुलिसदलेन स: गृहीत:। 

अद्यतनवार्ता

भारतम्

विश्वम्