Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

काश्मीरस्य अवन्तीपोराप्रदेशे सेनायाः आतकवादिनां च मध्ये सोमवासररात्रितः संघर्षः प्रचलति। अद्य प्रातःकाले सैनिकैः एकः आतङ्कवादी मारितः। मृतः आतङ्कवादी पुलवामाप्रदेशस्य अकीब मुस्ताक भटः आसीत्। अयं सः एव आतङ्कवादी आसीत् येन रविवासरे ए.टी.एम. कर्मचारिणः संजयशर्मणः हत्या कृता आसीत्। अकीबः “ए’ श्रेण्याः सूचिकृतः आतङ्की आसीत्। सः प्रारम्भे हिज्बुल-मुजाहिद्दीन् इत्यस्य कृते कार्यं कृतवान् आसीत्। सम्प्रति सः टी.आर.एफ. सङ्घटनेन सह कार्यं कुर्वन् आसीत्।

अद्यतनवार्ता

भारतम्

विश्वम्