Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

समग्रं विश्वं अधुना कोरोनाविषाणोः कारणात् त्रस्तमस्ति । भारतेऽपि एतस्य प्रभावः अन्यदेशानाम् अपेक्षया न्यूनमस्ति तस्य मूलकारणं सर्वेषां नागरिकाणां संयमः, सर्वकारीययोजनाषु विश्वासः, सर्वेषां सहयोगः, योद्धृणां अहर्निशं परिश्रमः च । नैके संस्थाः एतस्यां विकटपरिस्थित्यां कार्यरताः सन्ति तासु रा.स्व.सङ्घस्य कार्यं तु सुविदितमस्त्येव । सङ्घः संस्थारम्भकालादेव सेवायाः प्रतिमानमस्ति । अद्यत्वे अपि सङ्घस्वयंसेवकाः सततं कार्यं कुर्वन्तः सन्ति । तेषां उत्साहवर्धनाय अपि च सर्वेभ्यः भारतीयेभ्यः करणीयकार्यबोधाय सङ्घप्रमुखस्य सरसङ्घचालकस्य  श्रीमोहनभागवतमहोदयस्य वर्तमानं परिदृश्यम् अस्माकं भूमिका च इति विषयमधिकृत्य बौद्धिकस्यायोजनम् अभवत् । सरसङ्घचालकः स्वीये उद्बोधने उक्तवान् यत्

  • एकान्ते साधना, लोकान्ते लोकसाधना च सङ्घस्वरूपम् ।
  • कोरिना-विषाणु-सङ्क्रमणात् न भेतव्यम् ।
  • सर्वेषां सेवा अस्माकं धर्मः तत्र न किमपि दृष्टव्यम् ।
  • आयुष इति संस्थाद्वारा उक्ताः उपायाः अवश्यमेव चिन्तनीयाः पालनीयाः बोधनीयाः च ।
  • सर्वेऽपि भारतीयाः अस्माकं बान्धवाः सन्ति ।
  • भयक्रोध-उद्भूत-कृत्येषु अस्मिन् समये अस्माभिः ध्यानं न दातव्यम् ।
  • संन्यासिनोः हत्याप्रकरणे अस्माभिः धीरैः भवित्यव्यम् ।
  • शनैः शनैः व्याधिः अपगमिष्यति । लोक्डाउन् इति प्रतिबन्धः अपि समाप्तं भविष्यति । धैर्यं धारणीयम् ।
  • प्रतिबन्धानन्तरं विशेषावधानं स्थापनीयम् ।
  • सेवायां सर्वेऽपि योजनीयाः सन्ति ।
  • अग्रे स्वदेशी इति व्रतस्याचरणम् आवश्यकं भविष्यति । स्वदेशनिर्मितवस्तुषु गुणवत्ता अपि दृष्टव्या तदर्थं सर्वैः निर्मातृभिः ध्यानं दातव्यम् । स्वावलम्बनम् आवश्यकम् अस्ति तेनैव प्रगतिः भविष्यति ।
  • प्रदूषणमुक्तभारतस्य अनुभवं कृतवन्तः । अग्रेऽपि प्रदूषणं न भवेत् इति चिन्तनीयम् ।
  • कुटुम्बेषु परिवारेषु समाजे च सद्भावनायाः संस्कारस्य निष्ठायाः समर्पणस्य च प्रभावः अधिकः भवेत् तथा व्यवहरणीयम् ।
  • नागरिकानुशासने वयं तत्पराः भवेम । यत्र पालनं क्रियते तत्र परिस्थितिः नियन्त्रणे अस्ति ।
  • भारतं विकासस्य नूतनं प्रतिमानं भवेत् तदर्थं सर्वे अग्रे भवेयुः ।
  • लॉक्डाउन् कारणेन अस्माकं जीवने परिवर्तनम् आगतमस्ति । वयं संयमस्य पाठान् पठितवन्तः ।

अद्यतनवार्ता

भारतम्

विश्वम्