Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

एनसीपी, टीएमसी, सीपीआई इत्येतेषां त्रयाणां दलानां मतभागः ६ प्रतिशतात् न्यूनः अस्ति अतः निर्वाचनायोगेन तेषां राष्ट्रियदलस्य स्थितिः अपहृता। एतदतिरिक्तं राष्ट्रियलोकदलं राज्यस्तरस्य दलरूपेण अयोग्यः इति उद्घोषितम् ।

राष्ट्रियदलस्य मान्यताप्राप्तये ६%तः अधिक: मतभाग: अपेक्षते। गुजरातहिमाचलयो: गतनिर्वाचने आम-आदमी-पक्षद्वारा १३% मतभागः केवलं गुजराते एव प्राप्तः। एतादृश्यां परिस्थितौ आपद्वारा राष्ट्रियदलस्य मान्यता प्राप्ता। 

एतेन सह नियमानुसारम् उत्तरप्रदेशस्य राष्ट्रीयलोकदलम्, पश्चिमबङ्गस्य रिवोल्यूशनरी सोशलिस्ट पार्टी , आन्ध्रप्रदेशस्य भारतराष्ट्रसमिति: चेतेषां दलानां राज्यपक्षस्य स्थितिः अपहृता अस्ति।

 

अद्यतनवार्ता

भारतम्

विश्वम्