Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

कश्मीरस्य महिलाकार्यकर्त्री तस्लीमा अख्तरः कश्मीरविषये पाकिस्तानस्य दुर्भावनापूर्णप्रचारस्य प्रकाशनं कृतवती। कश्मीरे प्रायोजितस्य आतङ्कवादस्य विषये उक्त्वा पाकिस्तानं प्रति दर्पणं दर्शितवती। तस्लिमा अवदत् यत् संयुक्तराष्ट्रसङ्घस्य पुरत: वयं पाकिस्तानप्रायोजितस्य आतङ्कवादस्य भोगिनाम् अस्माकं निर्दोषजनानाम् कृते न्यायस्य आग्रहं कृतवन्तः। वयं जम्मू-कश्मीरे प्रचलितस्य विकासस्य विषये अपि चर्चां कृतवन्तः। काश्मीरस्य विकासे समग्रं विश्वं दृष्टिपातं कुर्वदस्ति। तस्लीमा अख्तरः अद्यैव संयुक्तराष्ट्रसङ्घस्य ५५ तमे अधिवेशने भागं गृहीतवती ।

अद्यतनवार्ता

भारतम्

विश्वम्