Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

१८तमस्य लोकसभानिर्वाचनस्य द्वितीयचरणस्य मतदानं १३ राज्येषु केन्द्रीयक्षेत्रेषु च ८८ निर्वाचनक्षेत्रेषु समाप्तम्। त्रिपुराराज्ये मणिपुरे च मतदानं सर्वाधिकम् अभवत्। महाराष्ट्रे, बिहारे, उत्तरप्रदेशे च न्यूनं मतदानमभवत्। छत्तीसगढस्य गरियाबन्दमण्डले एकः पुलिसकर्मचारी स्वयमेव गोलिकया आत्महत्यां कृतवान्। सः मध्यप्रदेशस्य निवासी अस्ति। बङ्गालस्य लोकसभाक्षेत्रद्वये केन्द्रीयसैनिकाः महिलानां मतदानं निवारयन्ति इति तृणमुलकोंग्रेसेन आरोप: कृत:। बङ्गालभाजपस्य अध्यक्षसुकान्तमजुमदारस्य तृणमूलकार्यकर्तॄणां च मध्ये बलूरघाटे अपि संघर्षः अभवत्। केषुचित् अन्यराज्येषु अपि काश्चन घटना: जाता:।

अद्यतनवार्ता

भारतम्

विश्वम्