Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

केन्द्रीय संस्कृत विश्वविद्यालयस्य भोपालपरिसरस्य प्रो. नीलाभ तिवारी मुदितपाण्डेयेन सह  ’द गोड’ (धात्वानन्द:) इत्यस्य तन्त्राशस्य निर्माणं कृतवान् अस्ति। अयं संस्कृतक्रीडायाः प्रथमः तन्त्रांशः इति उच्यते। निर्माणेऽस्मिन् पञ्चवर्षेभ्यः अपि अधिकः कालः गतः। तन्त्रांशद्वारा क्रीडया एव संस्कृतज्ञानं प्राप्तुं शक्यत प्रा. नीलाभस्य कथनानुसारं ’द गोड’ (धात्वानन्द:) इत्यस्य बीटा वर्जन् मई मासे एव एप स्टोर इत्यत्र उपलब्धः भविष्यति। वर्षान्ते सन्धिं पठितुम् अपि संस्कृतक्रीडा उपलब्धा भविष्यति। नूतनशिक्षानीतौ अपि बहुभाषिकताया: शिक्षायां अभितान्त्रिक्याः च उपरि बलं दत्तमस्ति। संस्कृतभाषाक्षेत्रे अयम् आधारस्तम्भः भविष्यति।

 

अद्यतनवार्ता

भारतम्

विश्वम्