Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अयोध्यायां निर्माणाधीनराममन्दिरस्य प्राणप्रतिष्ठायाः सज्जता पूर्णतया प्रचलति। २२ जनवरी दिनाङ्के रामलल्ला इत्यस्य प्राणप्रतिष्ठा भविष्यति, अपरपक्षे राममन्दिरात् प्रायः २६ कि.मी दूरे अयोध्यानगरस्य धनीपुरे मोहम्मद बिन अब्दुल्लाह मस्जिदस्य निर्माणं क्रियते। अन्तःस्थजनानाम् अनुसारं ताजमहलात् इदं मस्जिदं अधिकं सुन्दरं भविष्यति। अस्य मस्जिदस्य भूमिः अयोध्याविवादे सर्वोच्चन्यायालयस्य आदेशानुसारं उत्तरप्रदेशसर्वकारेण मुसलमानानां कृते दत्ता।

अयोध्यायां निर्मितस्य मस्जिदस्य नाम 'मस्जिद मोहम्मद बिन अब्दुल्लाह' इति। मस्जिदस्य विकाससमितेः अध्यक्षः मुम्बई-भाजपानेता हाजी अराफातशेखः अवदत् यत् अयोध्यायां निर्मितं मस्जिदं भारतस्य बृहत्तमं मस्जिदं भविष्यति। मस्जिदस्य अतिरिक्तभूमौ ५०० शय्यायुक्त: कर्करोगचिकित्सालय:, विद्यालयः, विधिमहाविद्यालयः, पुस्तकालयः, शाकाहारि-पाकशाला च निर्मितानि भविष्यन्ति, यत्र दीनेभ्य: भोजनं प्रदत्तं भविष्यति। 

 

अद्यतनवार्ता

भारतम्

विश्वम्