Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारते सायं 04:23 वादने आरब्धं चन्द्रग्रहणं 06:19 वादने समाप्तम् जातम्। चन्द्रग्रहणावसानानतरं सर्वेषां मन्दिराणां द्वाराणि उद्घाटितानि, शुद्धिकरणानन्तरं आरार्तिकादिकमपि सम्पन्नम्। चन्द्रग्रहणस्य आरम्भः देशे अरुणाचलप्रदेशस्य ईटानगरे प्रप्रथमं दृष्टिभूतम्। तथैव कोलकता-कोहिमा-पटना-पुरी-रांचीप्रदेशेषु पूर्णचन्द्रग्रहणं सम्पन्नम्। अवशिष्टप्रदेशेषु एतस्य आंशिकप्रभावः द्रष्टः। विश्वे अनेकेषु देशेषु चन्द्रग्रहणस्य दर्शनं जातम्। न्यूयोर्कनगरे सीडनीनगरे च रक्तचन्द्रग्रहणस्य अपि मनोरमं दृश्यं आसीत्।

अद्यतनवार्ता

भारतम्

विश्वम्