Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

थाईलैण्ड्देशे तृतीया विश्वहिन्दुसंसद् जायमाना अस्ति। थाईलैण्ड्देशस्य प्रधानमन्त्री श्रेथा थाविसिन् इत्यनेन उक्तं यत् विश्वे केवलं हिन्दुजीवनमूल्यानां माध्यमेन एव शान्तिः स्थापिता भविष्यति। सङ्घर्षं कुर्वता विश्वेन अहिंसा-सत्य-सहिष्णुता-सौहार्दयुक्तानां हिन्दु-मूल्यानां प्रेरणा ग्रहीतव्या, ततः एव शान्तिः जगति शक्यते।

कार्यक्रमेऽस्मिन् विश्वहिन्दूपरिषद: महासचिव: मिलिंद परांडे, राष्ट्रियस्वयंसेवकसंघस्य सरसंघचालक: मोहनरावभागवत:, भारतसेवाश्रमसंघस्य स्वामी पूर्णानंद इत्यादिभि: सह २२०० तः अधिकाः प्रतिनिधय: भागं गृहीतवन्त: सन्ति यै: शिक्षा-अर्थशास्त्रादिक्षेत्रेषु ये विलक्षणाः उपलब्धयः प्राप्ता: सन्ति।

राष्ट्रीयस्वयमसेवकसंघस्य प्रमुखः मोहनभागवतः उद्घाटनसत्रे अवदत् यत् भौतिकवादस्य, साम्यवादस्य, पूंजीवादस्य च प्रयोगानामनन्तरं अस्थिरं विश्वं भारतम् एव सुखस्य सन्तुष्टेः च मार्गं दर्शयिष्यति। विश्वस्य सर्वान् विचारकान्, कार्यकर्तॄन्, नेतॄन्, उद्यमिनः च सम्बोधयन् सः अवदत् यत्, "अस्माभिः प्रत्येकं हिन्दुपर्यन्तं सम्पर्क: स्थापनीय: भविष्यति। विश्वेन विशेषतः कोविद रोगानन्तरं सर्वसम्मत्या स्वीकृतमस्ति यत् भारतं सुखस्य सन्तुष्टेः च मार्गं दर्शयिष्यति इति”।

अद्यतनवार्ता

भारतम्

विश्वम्