Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अधुना यावत् तुर्कीदेशः भारतीयानां प्रियं पर्यटनस्थलम् आसीत्, परन्तु यदा भारत-पाकिस्तानयोः संघर्षे तुर्की-देशः पाकिस्तानस्य पक्षे स्थितवान् तदा भारतीयाः ‘तुर्की-बहिष्कार:’ इति आह्वानं कृतवन्तः येन प्रायश: २००० भारतीयाः तुर्की-देशस्य यात्रां निरस्तां कृतवन्त:। तदनन्तरं भारतस्य व्यापारिणः, विक्रेतारः, शीर्षस्थाः ई-वाणिज्य-मञ्चाः च व्यापकं बहिष्कारं कृत्वा तुर्की-वस्तूनाम् क्रयणं त्यक्तवन्तः, येन तुर्की-देशस्य महती आर्थिकहानिः अभवत्। अधुना तुर्कीदेशे आयोजिता: डेस्टिनेशन् वेडिंग इति दूरस्थप्रदेशे आयोजिता: विशेषविवाहा: अपि निरस्ता: जाता:। तुर्कीदेशः भारतीयविवाहात् प्रतिवर्षं प्रायः १२०० कोटिरूप्यकाणि अर्जयति स्म, यत् अधुना स्थगितम् भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्