Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

बुधवासरे कोलकाताविमानस्थानके महती दुर्घटना निवारिता। अस्यां दुर्घटनायां ३०० यात्रिका: प्राणसङ्कटात् उद्धृता: । एकस्मिन् समये एव द्वे विमाने धावनमार्गे आगच्छताम् । अस्मिन् काले इन्डिगो-एयर इण्डिया-विमानयोः पक्षयोः परस्परं संघट्टनम् अभवत् । अस्याः घटनायाः अनन्तरं कोलकाता-विमानस्थानके परिसरे महान् कोलाहल: उद्भूत:। उभयोः विमानयोः यात्रिकाः प्रथमं तत्क्षणमेव निष्कासिताः । तदनन्तरं सर्वान् अन्येन विमानेन गन्तव्यस्थानं प्रति प्रेषयितुं व्यवस्था कृता ।

अद्यतनवार्ता

भारतम्

विश्वम्