Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतस्यक्रिकेटदलस्य पूर्वगणनायक: विराट् कोहली इन्स्टाग्राममाध्यमेन न केवलं सर्वाधिक-उपार्जनशीलः भारतीयः अपितु एशियाखण्डस्य सर्वाधिक: उपार्जनशील: क्रीडक: जात: अस्ति। स: एकेन सन्देशेनैव ११.४५ कोटिरूप्यकाणि अर्जयति। क्रीडकेषु स: तृतीय: अस्ति। प्रथमे फुटबॉलक्रीडकः क्रिस्टियानो-रोनाल्डो द्वितीये च लियोनेल्-मेस्सी। हॉपर-मुख्यालयेन २०२३ तमस्य वर्षस्य इन्स्टाग्राम रिच लिस्ट् प्रकाशितम् अस्ति । एतस्यानुसारं विराट: इन्स्टाग्राम-पोस्ट्-द्वारा १३ लक्षं ८४ सहस्रं डॉलर (प्रायः ११.४५ कोटिरूप्यकाणि) अर्जयति। विराटस्य इन्स्टाग्रामे २५६ कोटि: अनुयायिनः सन्ति। 

 

अद्यतनवार्ता

भारतम्

विश्वम्