Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे (जून २८) शुभांशुशुक्लेन सह सम्भाषणं कृतवान्। भारतीयवायुसेनायाः (IAF) अधिकारी शुभांशशुक्लः अन्ताराष्ट्रिय-अन्तरिक्षस्थानके (ISS) प्रवेशं कृतवान् प्रथमः भारतीयः अभवत् । Axiom-4 Mission इत्यस्य भागरूपेण तस्य यात्रा वैश्विक-अन्तरिक्ष-अन्वेषणे भारतस्य कृते एका प्रमुखा उपलब्धि: इति मन्यते ।

प्रधानमन्त्री मोदी १४ दिवसीयायाम् अन्तरिक्षयात्रायां गतवता शुभांशुशुक्लेन सह वार्तालापं कृतवान् यस्मिन् प्रधानमन्त्री उक्तवान् - “भवान् देशवासिनां हृदयस्य अतीव समीपस्थ: अस्ति। १४० कोटिदेशवासिनां भावाः भवता सहैव सन्ति। सर्वेषु भारतीयेषु उत्साहः वर्तते। भारतस्य ध्वजारोहणार्थं अभिनन्दनम्।” तेन अपि उक्तं यत् अत्र एकस्मिन् दिने एव षोडशवारं सूर्योदया: सूर्यास्ता: च भवन्ति, इत: भारतं भव्यं भासते।

अद्यतनवार्ता

भारतम्

विश्वम्