Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतस्य महिला-क्रिकेट्-दलः प्रथमवारं अण्डर-१९ विश्वचषकस्पर्धायां विजेता अभवत्। अन्तिमस्पर्धायां इण्डिया-दलेन इङ्ग्लैण्ड्-देशः पराजितः । १७.१ पर्यासेषु ६८ धावनाङ्कानां कृते इङ्ग्लैण्ड्-देशः बहिः कृतः । तस्य प्रत्युत्तरे भारतेन १४ पर्यासेषु ३ स्तोभैः लक्ष्यं प्राप्तम् । सौम्या तिवारी विजयी घातं कृतवती।

सौम्या तिवारी २४, दलनायिका शेफाली वर्मा १५.गोङ्गडी त्रिशा २४, उपनायिका श्वेता सेहरावत च ५ धावनाङ्कान् कृतवत्यः। तीतास साधुः स्पर्धायाः श्रेष्ठक्रीडकरूपेण पुरस्कृता । इङ्ग्लैण्ड्-देशस्य नायिका  ग्रेस् स्क्र्वान्स् प्रतियोगितायाः श्रेष्ठक्रीडकत्वेन घोषिता ।

बीसीसीआई-द्वारा महिलाक्रिकेटदलाय सहायककर्मचारिभ्यः च प्रतियोगितायां विजयं प्राप्तुं ५ कोटिरूप्यकाणां पुरस्कारस्य घोषणा कृता अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्