Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

माइक्रोसॉफ्टसंस्थायाः सहसंस्थापकः अर्बुदाधिपति: बिल गेट्स् इत्यनेन प्रवर्तमानस्य विश्वस्य भविष्यवाणी कृता अस्ति। सः उक्तवान् यत् शीघ्रमेव सर्वेषां कृते कार्यं कुर्वन् रोबोट् यन्त्रमानव: "एजेण्ट्" भविष्यति, यत् अद्यतनप्रौद्योगिक्याः अपेक्षया श्रेष्ठतमं भविष्यति। अनेन आगामिषु पञ्चवर्षेषु जगत् पूर्णतया परिवर्तयिष्यते। एतत् अस्माकं पृच्छाया: पूर्वमेव अस्मान् बोधयितुं समर्थ: भविष्यति। ओपनएआइ इत्यस्य ChatGPT, Microsoft इत्यस्य Bing, Google Board, Elon Musk इत्यस्य Grok इत्यादीनां नूतनानां मञ्चानां आगमनेन AI प्रौद्योगिक्याः उन्नतिं विश्वं पश्यत् अस्ति। एआइ एजेण्ट व्यक्तिगतसहायकरूपेण किमपि कर्तुं शक्नोति। भवतः रुचिं, प्रवृत्तिं च आधारीकृत्य मार्गदर्शनं प्रदास्यति। एजेण्ट् व्यावसायिकयोजनातः उत्पादपर्यन्तं सर्वं द्रक्ष्यति। परिवारस्य मित्राणां च पालनं करिष्यति। साररूपेण वक्तुं शक्यते यत् मानव: यत् किमपि करोति प्रायश: तत् सर्वमपि कर्तुं सक्षम: भवितुमर्हति।

अद्यतनवार्ता

भारतम्

विश्वम्