Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

चन्द्रग्रहणं सूर्यग्रहणं वा कदा भविष्यति ? सूर्योदय: सूर्यास्त: वा कदा? कदा उत्तमः समयः भवति ?  वैदिकघटिकातः एतादृश्य: बहुविधाः विशिष्टाः सूचनाः प्राप्तुं शक्यन्ते। प्रधानमन्त्री नरेन्द्रमोदी १ मार्च दिनाङ्के आभासीयरूपेण एतस्या: घट्या: लोकार्पणं करिष्यति। एषा विश्वस्य प्रथमा डिजिटलघटिका भविष्यति यया न केवलं भारतीयमानकसमयः (IST) ग्रीनविच् मीनसमयः (GMT) च प्रदर्शितः भविष्यति, अपितु पञ्चाङ्गस्य ३० मुहूर्तानां च सूचनाम् अपि प्रदास्यति।

उज्जैननगरस्य जीवाजीवेधशालायाः समीपे जन्तरमन्तरे ८५ फिट्परिमितः उन्नतं गोपुरं निर्मितम् अस्ति। यस्मिन् १०×१२ वैदिकघटिका स्थापिता भविष्यति। विक्रमसंशोधनसंस्थायाः निदेशकः श्रीरामतिवारी अवदत् यत् एषा घटी विश्वस्य प्रथमा घटी अस्ति या भारतीयसमयस्य प्रदर्शनं करिष्यति। उल्लेखनीयं यत् उज्जैनं कालगणनाकेन्द्रं मन्यते। मध्यप्रदेश मुख्यमन्त्री डा. मोहन यादवः उज्जैनं कालगणनायाः केन्द्रं कर्तुम् इच्छति। सः २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २२ दिनाङ्के विधानसभासत्रेऽपि एतत् अवदत्। मध्यप्रदेशसर्वकारः प्राइम मेरिडियनं इङ्ग्लैण्डदेशस्य ग्रीनविचतः उज्जैननगरं प्रति स्थानान्तरयितुं कार्यं करिष्यति। तदर्थं उज्जैन वेधशालायां शोधकार्यं भविष्यति। विशेषज्ञाः वदन्ति यत् ३०० वर्षपूर्वं यावत् समग्रस्य विश्वस्य मानककालः उज्जैनतः एव निर्धारितः आसीत् । देशस्य प्रथमा वेधशाला (वर्तमानः जीवाजी वेधशाला) उज्जैननगरे १७२९ तमे वर्षे राजा जयसिंहद्वितीयेन निर्मिता। 

वैदिकघटिका अन्तर्जालेन वैश्विकस्थानप्रणाल्या (GPS) च सह सम्बद्धा भविष्यति। यस्मिन् विक्रमसंवतस्य विषये सूचनाः IST, GMT, भारतीयसमयगणना चापि प्राप्स्यन्ते। तत्र सूर्योदयतः सूर्यास्तपर्यन्तं ग्रहाणां, योगस्य, भद्राया:, चन्द्रस्थानस्य, नक्षत्रस्य, सूर्यग्रहणस्य, चन्द्रग्रहणस्य च विषये सूचनाः प्राप्स्यन्ते। अभिजितमुहूर्त:, ब्रह्ममुहूर्त:, अमृतकाल: तथा वातावरणसम्बन्धं विवरणमपि प्राप्तुं शक्यते। घट्या: पृष्ठपटले प्रत्येकं घण्टायाः अनन्तरं नूतनं चित्रं दर्शयिष्यति। 

वैदिकघटिकया सह सम्बद्धं मोबाईल एप् अपि प्रारब्धं भविष्यति। यस्य परिकल्पना आरोह श्रीवास्तवः कुर्वन्नस्ति। तस्य नाम विक्रमादित्य वैदिकघटिका भविष्यति। वैदिकघटिकायाः ​​सर्वा: विशेषता: अस्मिन् एप् मध्ये भविष्यन्ति।

चित्रम् - प्रतीकात्मकम्

अद्यतनवार्ता

भारतम्

विश्वम्