Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

एकस्मिन् पार्श्वे आधुनिकाः भारतीययुवकाः पाश्चात्यसंस्कृतेः अन्धानुकरणं कुर्वन्ति तदा अन्यस्मिन् पार्श्वे जापानदेशात् वेदान्तस्य पाणिनीयव्याकरणस्य अभ्यासं कर्तुं त्रयोदश युवत्यः जापानदेशात् गुजरातस्य पोरबन्दरपर्यन्तं आगतवत्यः सन्ति। भारतीयोपनिषदि वेदेषु च रुचिकारणात् त्रयोदश जापानदेशीयाः युवत्यः अत्र आगतवत्यः सन्ति।

ताः द्वादशदिनेभ्यःयावत् भगवद्गीता-उपनिषद्-पाणिनीयव्याकरण-वेदादीनां अध्ययनं कुर्वत्यः सन्ति। न केवलं साहित्यस्य अभ्यासम् अपि तु ताः शिवपूजनस्य विधिं श्लोकोच्चारणं चापि पठन्त्यः सन्ति।

तासु एकस्याः तोतोमी इति नामधेयायाः युवत्याः मतानुसारेण आन्तर्जालमाध्यमेन उपनिषत्सु भगवद्गीतायां च तस्याः रुचिः उत्पन्ना। अधिकं ज्ञातुं जिज्ञासावशात् सा अत्र आगत्य वेदान्तस्यापि अभ्यासम् आरब्धवती। अत्र स्वामिनी निगमानन्दा स्वामिनी नित्यकल्याणानन्दासरस्वतीजी स्वामी चेतनानदसरस्वतीजी(जापान) वेदान्तादीनां ज्ञानं यच्छन्तः सन्ति।

एतत् सर्वविदितमस्ति यत् स्वामिविवेकानन्दः अपि पोरबन्दरे १८९१-९२ तमे वर्षे पाणिनीयव्याकरणस्य वेदानां च अभ्यासं कृतवान् अस्ति।
 
अद्यतनवार्ता

भारतम्

विश्वम्