Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

तृतीयसङ्घशिक्षावर्गस्य दीक्षान्तसमारोहे सङ्घस्य सरसङ्घचालकेन उक्तं यत् सङ्घः समाजे सङ्घटनं न करोति परन्तु समाजस्य सङ्घटनं करोति । प्रतिवर्षं दीक्षान्तसमारोहः भवति तत्र नैके महानुभावाः उपस्थिताः भूत्वा सङ्घकार्यं पश्यन्ति अवगच्छन्ति च । अद्य अस्माकं पुरतः माननीयः पूर्वराष्ट्रपतिः उपस्थितः अस्ति। पूर्वराष्ट्रपतेः सङ्घकार्यक्रमे उपस्थितेः चर्चा अस्थाने एव । केवलं सर्वकारः भारतभाग्यविधाता नास्ति । सङ्घः सर्वसमाजनियोजकः अस्ति । भारते आगन्तॄणां अपि समावेशः जातः अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्