Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गुजरातराज्यस्य शिक्षणमन्त्री प्रा. डॉ. कुबेरभाई डींडोर: संस्कृतेन शपथं स्वीकृतवान् आसीत्। तदनन्तरं  विधायकानां शपथसमारोहे ११ विधायकाः संस्कृतेन शपथं कृतवन्तः।
विधानसभायां संस्कृतेन शपथं स्वीकृतवत्सु ९ पुरुषसदस्याः विधायकस्य शपथं कृतवन्तः, २ महिलासदस्यौ संस्कृतभाषायां विधायकपदस्य शपथं गृहीतवन्तः। तत्र १० विधायकाः आसन् ये गुजरातीभाषायाः स्थाने संस्कृतभाषायां शपथग्रहणं योग्यं मन्यन्ते स्म । दर्शिताशाह, दर्शनदेशमुख, अनिरुद्ध दवे, अनिकेत ठाकर, किरीत पटेल, अमित ठाकर, दिनेश कुशवाह, अर्जुन मोढवाडिया, प्रद्युमन वाजा, शम्भुनाथ तुण्डिया, कनैयालाल किशोरी च संस्कृतभाषायां शपथं गृहीतवन्तः।

अद्यतनवार्ता

भारतम्

विश्वम्