Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

केवलं १२ घण्टानां कालखण्डे रेलदुर्घटनाद्वयं जातम्। पूर्वं दिल्लीतः दरभंगां प्रति गच्छत: रेलयानस्य ३ यानेषु अग्निप्रकोपः अभवत्। अस्मिन् एकं शयनयानं, द्वे सामान्ययाने च आसन्। अस्यां घटनायां कोऽपि गम्भीररूपेण क्षतिग्रस्तः न अभवत्। अग्निनियन्त्रणं कृत्वा दग्धानि त्रीणि यानानि रेलयानात् पृथक् कृताः। एतेषु त्रयेषु यानेषु प्रायः ५०० जनाः आरूढा: आसन्। अन्यघटनायां दिल्लीतः सहरसां प्रति गच्छत: वैशाली एक्स्प्रेस् १२५५४ याने अग्निः प्रज्वलित:। एस ६ इत्यत्र एषा घटना अभवत्। प्रायः १९ यात्रिकाः घातिताः अभवन्। परन्तु अस्या: घटनायाः पृष्ठतः कारणं अद्यापि न ज्ञायते। रेलवे अधिकारिणः अन्वेषणं कुर्वन्त: सन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्