Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अण्डमान-निकोबार-द्वीपसमूहस्य २१ द्वीपानां नामकरणं परमवीरचक्रविजेतॄणां नामधेयेन भविष्यति। परक्रमदिवस-निमित्तं आयोजिते समारोहे अण्डमान-निकोबारयोः एकविंशतिः प्रमुखाः संज्ञाविहीनाः परमवीरचक्रविजेतॄणां नामधेयेन उद्घोषिताः। प्रसङ्गेस्मिन् प्रधानमन्त्रिणा नरेन्द्रमोदिना सुभाषचन्द्रबोसाय समर्पितस्य राष्ट्रियस्मारकस्य अपि अनावरणं कृतम्, यत् पूर्वं रॉस् द्वीपः इति नाम्ना प्रसिद्धम् आसीत्। 

येषां नामधेयेन द्विपनामानि उद्घोषितानि ते परमवीरपुरस्कृताः सैनिकाः सन्ति - सोमनाथ शर्मा, करम सिंह, राम राघोबा राणे, जदुनाथ सिंह, पीरू सिंह, जी एस सलारिया, धन सिंह थापा, जोगिंदर सिंह, शैतान सिंह, अब्दुल हमीद, अरदेशर बुर्जोर्जी तारापोर, अल्बर्ट एकक्का, होशियार सिंह, अरुण क्षेत्रपाल, निर्मलजीत सिंह सेखों, रामस्वामी परमेश्वरन, बाना सिंह, विक्रम बत्रा, मनोज कुमार पाण्डेय, संजय कुमार एवं योगेन्द्र सिंह यादव।

अद्यतनवार्ता

भारतम्

विश्वम्