Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उज्जयिनीस्थस्य महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य वेदव्याकरणदर्शनविभागयो: तथा नवदेहलीस्थभारतीयदार्शनिकानुसन्धानपरिषदः संयुक्ततत्त्वावधानेन  वैदिकभाषादर्शनमुच्चारणविज्ञानञ्च इति विषयमाश्रित्य समायोजितायाः राष्ट्रियशोधसंगोष्ठ्याः शुभारम्भः षड्विंशे दिनाङ्के प्रातः एकादशवादने महाकालमन्दिरप्राङ्गणस्थे माधनसेवान्यासपरिसरस्य सभागारे सञ्जातः। उद्घाटनसत्रे मुख्यातिथिरूपेण प्रदेशस्य उच्चशिक्षामन्त्रिणः डॉ.मोहनयादवमहोदयाः समुपस्थिता आसन्। महोदयेन उक्तं यत्  संस्कृतभाषया महत्त्वपूर्णज्ञानराशिः उपनिबद्धो वर्त्तते। वैदेशिका अस्या महिम्नः परिचिताः सन्ति। संस्कृतं विज्ञानस्य भाषा अस्ति। संस्कृतेनैव भारतस्य अस्तित्वम् अस्ति। सारस्वतातिथिरूपेण उपस्थितेन विक्रमविश्वविद्यालयस्य कुलपतिना प्रो. अखिलेशकुमारपाण्डेयमहोदयेन उक्तं यत संस्कृतं विज्ञानस्य जननी अस्ति, संस्कृतग्रन्थेषु नानाविधाविष्काराः तत्त्वरूपेण निहिताः वर्त्तन्ते। संगोष्ठ्यां विशिष्टातिथिरूपेण हिन्दी-ग्रन्थ-अकादमी इति संस्थायाः सञ्चालक: डॉ. अशोककडेलमहोदय: समुपस्थित: वैदिककालादारभ्य संस्कृतस्य भाषावैज्ञानिकत्वं प्रतिपादितवान्। उद्घाटनसत्रस्य मुख्यवक्तृरूपेण उपस्थित: भारतीयदार्शनिकानुसन्धानपरिषदः सचिव: प्रो. सच्चिदानन्दमिश्रमहोदय: स्वकीये बीजवक्तव्ये संस्कृतव्याकरणस्य आदिपरम्परातः शब्दतत्त्वविषये ध्वनितत्त्वविषये च विस्तृतं व्याख्यानं दत्तववान्। सभाध्यक्षरूपेण समुपस्थितैः कुलपतिभिः सी. जी. विजयकुमाराचार्यमहाभागैः निगदितं यत् पुनः आधुनिककाले अपि संस्कृतभाषाप्रयोगस्य अनिवार्यता अनुभूयते। 

वैदिकसत्रे मुख्यवक्तृरूपेण प्रो.सदानन्द-त्रिपाठिमहोदयेन सत्रम् उद्बोधितम्, तथा प्रो.इलाघोषमहाभागया सत्रस्य अध्यक्षता कृता। ततो व्याकरणसत्रे मुख्यवक्तृरूपेण प्रो.प्रदीपकुमारपाण्डेयमहोदयेन सत्रम् उद्बोधितम्, प्रो. शैलेन्द्रकुमारशर्ममहोदयेन सत्रस्य अध्यक्षता कृता। उभयसत्रे शोधपत्रवाचकाः शोधपत्रमुपस्थापितवन्तः। अस्याः राष्ट्रियशोधसंगोष्ठ्याः संयोजकेन डॉ. अखिलेशकुमारद्विवेदिमहोदयेन उद्घाटनसत्रे संगोष्ठीप्रस्तावनं स्वागतभाषणं च कृतम्। सत्रसञ्चालनं डॉ.उपेन्द्रभार्गवमहोदयेन, आभारप्रदर्शनं कुलसचिवेन डॉ. दिलीपसोनीमहोदयेन प्रस्तुतम्। संगोष्ठ्यामस्यां विश्वविद्यालयस्य शोधच्छात्राः, नगरस्य गणमान्यजनाः पत्रकाराश्च उपस्थिता आसन्। अन्तिमे कल्याणमन्त्रेण सभा समाप्ता।

अद्यतनवार्ता

भारतम्

विश्वम्