Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

ब्रिटैनदेशं प्रति अन्यदेशेभ्यः आगन्तारः पञ्चलक्षाधिकाः जाताः। राष्ट्रिय-साङ्ख्यकीय-कार्यालयद्वारा जून 2021तः जून2022 पर्यन्तं संख्याकीयविवरणं प्रस्तुतम्। विवरणेऽस्मिन् प्रधानमन्त्रिणा ऋषिशुनकेन  निवेदितं यत् कोविद-नियमेषु सरलीकरणकारणात् वैदेशिकानां संख्या वर्धिता अस्ति। एतेनैव प्रवासिनां संख्या वर्धमाना अस्ति।

पूर्वं चीनदेशस्य छात्राः अधिका: आसन् परन्तु अद्यत्वे भारतीयछात्राणां संख्या 273 प्रतिशतं वर्धिता अस्ति। कृतहस्तप्रवेशानुमतिं प्राप्तवत्सु भारतीयाः सर्वाधिकाः पञ्जीकृताः सन्ति। एकस्मिन् वर्षे एव 56042 भारतीयाः प्रवेशानुमतिं प्राप्तवन्तः ।

अद्यतनवार्ता

भारतम्

विश्वम्