Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

समग्रे देशे कोरोना-विषाणोः सङ्क्रमकानां सङ्ख्या वर्धमाना अस्ति । केन्द्रसर्वकरस्य राज्यसर्वकाराणाञ्च नैकैः प्रयत्नैः व्याधिनाशाय यथायोग्यं प्रभावं जनयितुं न समर्थाः वयम् । तत्रापि देशस्य पञ्चसु नगरेषु परिस्थितिः चिन्तापूर्णा अस्ति । एतानि नगराणि सन्ति – मुम्बई, इन्दोर जयपुरं, अहमदाबाद पुना च । एतेषु नगरेषु संक्रमकाः वर्धन्ते परन्तु रोगशमानुपातः न्यूनः अस्ति अपि च मृत्यु-अनुपातः अन्यनगरापेक्षया अधिकः अस्ति । एतेन केन्द्रराज्यसर्वकाराणां चिन्ता वर्धिता अस्ति । राष्ट्रियस्तरे रोगशमानुपातः १९ % तः अधिकः अस्ति परन्तु जयपुरे इन्दोरनगरे ८% अहमदाबादनगरे १०% मुम्वईनगरे १३% च अस्ति ।

- संस्कृतवार्ता sanskrit news

अद्यतनवार्ता

भारतम्

विश्वम्