Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अहमदाबादनगरस्य दुःखदविमानदुर्घटना यत्र अनेकेषां परिवाराणां सुखम् अपहृतमस्ति। अमरेलीजनपदस्य वाडियानगरस्य मूलनिवासी अर्जुनभाई मनुभाई पटोलिया इत्यस्य कथा अपि हृदयविदारिका अस्ति। अस्मिन् एव वर्षे कर्करोगेण पीडिताया: स्वपत्न्याः मृत्यो: अनन्तरं तस्या: अन्तिमेच्छापूर्तये स्व-गृहनगरं प्रत्यागतस्य अर्जुनस्य अहमदाबाद-विमानदुर्घटनायां मृत्यु: अभवत् । एवम् अल्पेऽएव काले द्वयो: पुत्र्यो: मातापित्रो: देहान्त: जात: । लन्दननगरे अर्जुन: यत्र कार्यं कृतवान् तत्र इन्स्पायर्ड एलिमेण्ट्स् लिमिटेड् इत्यस्य विनोद खिमजी नामकः संस्थास्वामी भविष्ये द्वयोः पुत्र्योः जीवनयापनाय, सुरक्षायै, अभ्यासार्थं च gofundme इति क्राउड्फण्डिंग् मञ्चे अभियानं आरब्धवान्। यदा अस्याः घटनायाः वार्ता प्रसरिता तदा केवलं अष्टदिवसेषु एव १५ सहस्राधिकाः विश्वजनाः अद्यावधि ७.८७ कोटित: अधिकं धनं दानं कृतवन्त: । इदं अभियानं gofundme इति क्राउड्फण्डिंग् मञ्चे २०२५ तमस्य वर्षस्य जूनमासस्य १५ दिनाङ्के इन्स्पायर्ड् एलिमेण्ट्स् लिमिटेड् इत्यस्य विनोद खिम्जी इत्यनेन आरब्धम् आसीत्। तेनोक्तं यत् मया आरब्धस्य अस्य अभियानस्य मुख्यं उद्देश्यं भविष्ये एतयोः बालिकयोः मूलभूतसुविधाः प्रदातुं वर्तते। https://www.gofundme.com/f/secure-a-future-for-arjuns-bhartis-daughters

अद्यतनवार्ता

भारतम्

विश्वम्