Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राष्ट्रपतिः डोनाल्ड ट्रम्पः भारते पुनः आयातशुल्कप्रहारं कृतवान्।रूसदेशात् तैलस्य क्रयणस्य विषये क्रुद्धः सः भारते अपरं २५ प्रतिशतं शुल्कं आरोपितवान् अस्ति। तदर्शं तेन कार्यकारि-आदेशे हस्ताक्षरं कृतम्। एतस्य कारणानि सन्ति यत् भारतेन अमेरिकादेशाय दर्पणे मुखदर्शनं कारितमस्ति। भारतेन अपि आयातविषये स्पष्टं कृतमासीत् यत् अमेरिकादेश: स्वयं रूसदेशात् यूरेनियम् अपि च विद्युत्वाहनोद्योगाय पैलेडियमं क्रीणाति। अत: आयातविषये अमेरिकादेशस्य  भारतं प्रति लक्ष्यीकरणं अनुचितम् अन्यायपूर्णमस्ति। अन्यदेशानाम् इव भारतमपि स्वराष्ट्रहिताय आर्थिकसुरक्षानुसारं च पदानि स्वीकर्तुं शक्नोति। ट्रम्पस्य क्रोधस्य अन्यानि कारणानि अपि सन्ति यथा भारतेन ब्रिक्सदेशानां कृते अन्ताराष्ट्रियमुद्रायाः प्रस्तावः स्थापित: अस्ति येन डोलरमूल्यं अध: गन्तुं शक्नोति। अपि च ट्रम्पः अमेरिकनकृषि-दुग्ध-उत्पादानां कृते भारतीय-विपणि-उद्घाटनं, शुल्क-न्यूनीकरणस्य च आग्रहं कुर्वन् अस्ति परन्तु भारतेन तस्य अस्वीकार: कृत: अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्