उत्तरकाशीनगरे ह्य: मेघविस्फोटस्य तिस्र: घटनाः अभवन्, तदतिरिक्तं वर्षाकारणात् पर्वतस्य अर्धभागः पतितः, अनेकानि गृहाणि विश्रामस्थानानि च पङ्कमग्नानि अभवन्। केरलतः २८ पर्यटकाः गङ्गोत्रीधाम प्रति प्रस्थिताः, मार्गे धरालीग्रामे स्थगितवन्तः परन्तु अधुना तेषां वार्ता नास्ति। उत्तरकाशीमण्डलस्य धरालीसमीपे मेघविस्फोटकारणात् खीरगङ्गानद्यां जलाप्लावकारणेन २०-२५ विश्रामस्थानानि, नैकानि गृहाणि, वृक्षाः च प्रभावग्रस्ता:। एतावता अस्यां घटनायां १० जनानां मृत्योः पुष्टिः अभवत्। सञ्चारमाध्यमानां समाचारानुसारं ५० तः १०० यावत् जनाः लुप्ता: सन्ति। मृतानां संख्यावर्धनं भवितुं श्क्नोति। अपरपक्षे जलशक्तिमन्त्रालयेन उक्तं यत् मङ्गलवासरे उत्तरकाशीनगरे केवलं सार्धद्विघण्टासु एव त्रयः मेघविस्फोटाः अभवन्, येन धरालीनगरे अत्यधिक: विनाशः अभवत्।