Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

मणिपुरस्य प्राचीनतमं सशस्त्रसंघटनं यूएनएलएफ अहिंसामार्गत: मुख्यधारायां सम्मिलितुं सहमतः। संघटनेन शान्तिसन्धौ हस्ताक्षरं कृतमस्ति। गृहमन्त्री शाहः स्वस्य X-लेखा-माध्यमेन अवदत् यत् एषा ऐतिहासिकी उपलब्धिः प्राप्ता। पूर्वोत्तरे स्थायिशान्तिं आनेतुं मोदीसर्वकारस्य प्रयत्ने नूतनः अध्यायः योजितः यतः अद्य संयुक्तराष्ट्रियमुक्तिदल: (UNLF) नवदिल्लीनगरे शान्तिसन्धौ हस्ताक्षरं कृतवान्। मणिपुरस्य प्राचीनतमं उपत्यकाधारितं संस्था यूएनएलएफ हिंसां त्यक्त्वा मुख्यधारायां सम्मिलितुं सहमतः अस्ति। अहं तस्य लोकतान्त्रिकप्रक्रियासु स्वागतं करोमि, शान्तिपूर्णप्रगतेः मार्गे सर्वेभ्य: शुभकामना: च ददामि।

अद्यतनवार्ता

भारतम्

विश्वम्