Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

हरियाणाराज्यस्य नूहनगरे विश्वहिन्दुपरिषद्-मातृशक्ति-दुर्गावाहिनी-द्वारा आयोजिता आसीत्। ब्रजमण्डलयात्रा नूहस्य नलहदशिवमन्दिरात् फिरोजपुर-जिरका प्रति प्रारब्धा आसीत्। यात्रा तिरंगा-उद्यानं प्राप्ता तदा तत्र उपद्रविणां सुसज्ज: समूहः पूर्वमेव समागतः आसीत्। आगमनमात्रेण साक्षात् द्वयोः पक्षयोः युद्धं जातम्, अचिरेण एव शिलाप्रहारः आरब्धः।  उपद्रविभिः नैकानि यानानि ज्वालितानि, आरक्षकाणामुपरि अपि पाषाणप्रहार: कृत:यस्मिन् बहवः जनाः पुलिसकर्मचारिणः च घातिताः अभवन्। नूह-मण्डलप्रशासनेन अन्यजनपदेभ्यः पुलिसबलं आहूय परिस्थितेः निवारणाय, सम्पूर्णे मण्डले धारा १४४ स्थापिता, अगस्तमासस्य २ दिनाङ्कपर्यन्तं अन्तर्जालसेवा निषिद्धा अस्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्