Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

सिक्किमस्य राजधानी गङ्गटोक इत्यत्र मंगलवासरे हिमस्खलनं जातम्। हिमस्खलनकारणात् उपस्थिताः शतशः जनाः सवाहनं हिमनिखाताः जाताः। घटनेयं गङ्गटोक-नाथुला-मार्गे प्रायः ११:३० वादने अभवत्। बीआरओद्वारा अचिरं आपत्कालीनकार्यम् आरब्धं, २२ पर्यटकाः च हिमात् बहिः आनीताः। एतेषु ११ पर्यटकाः चिकित्सालये प्रेषिताः येषां स्थितिः विकटा आसीत्। अस्मिन् ७ पर्यटकाः मृताः। मृतेषु चत्वारः पुरुषाः, द्वौ महिले, एकः बालकः च सन्ति।  

वस्तुतः एतस्मिन् क्षेत्रे सर्वत्र गन्तुम् अनुमतिः नास्ति। पर्यटकाः केवलं १३तमं अन्तरप्रस्तरपर्यन्तम् एव गन्तुं शक्नुवन्ति। एषा घटना १४तमे अन्तरप्रस्तरे अभवत्। प्राकृतिकसौन्दर्यदर्शनलोभात् आकर्षिताः पर्यटकाः अग्रे गतवन्तः।

 

अद्यतनवार्ता

भारतम्

विश्वम्