Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

22/01/2024 दिनाङ्के अयोध्यायां राममन्दिरस्य प्राणप्रतिष्ठामोहोत्सवः भविष्यति। अस्मात् पूर्वं प्रधानमन्त्री नरेन्द्रमोदी श्वः अर्थात् ३० दिसम्बर २०२३ दिनाङ्के अयोध्यानगरे अन्ताराष्ट्रियविमानस्थानकस्य उद्घाटनं करिष्यति। अधुना अस्य विमानस्थानकस्य नामपरिवर्तनं कृत्वा महर्षिवाल्मीकि-अन्ताराष्ट्रियविमानस्थानकं कृतम् अस्ति। उत्तरप्रदेशस्य योगि-आदित्यनाथसर्वकारेण विषयेऽस्मिन् केन्द्रसर्वकाराय प्रस्तावः प्रेषितः आसीत्।  अस्य विमानस्थानकस्य उद्घाटनात् ४८ घण्टापूर्वं मण्डलप्रशासने नामपरिवर्तनस्य सूचना प्राप्ता। अतः अस्य विमानस्थानकस्य नाम परिवर्तनं कृत्वा महर्षिवाल्मीकि अन्ताराष्ट्रियविमानस्थानकं कृतम् अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्