Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

विमानसेवायाः अनुसारं इन्डिगो इत्यस्य ६ई-५७ इति विमानयानं सायं ४ वादने बैंकॉक्-नगरात् मुम्बईनगरं प्रति स्वस्य समयसूचनानुसारं गच्छदासीत्। प्रायः एकघण्टायाः उड्डयनानन्तरं विमानस्य यात्रिकस्य स्थितिः क्षीणा अभवत्। सूचनानुसारं यात्रिकस्य आकस्मिक: हृदयघातः जातः। चालकदलसदस्यैः विमानस्थानकप्राधिकरणाय सूचितम्। सूचनां प्राप्य विमानं म्यान्मारविमानस्थानकं प्रति प्रेषितम्। सम्प्रति विमानसेवाभिः अद्यापि यात्रिकस्य विषये किमपि विवरणं न दत्तम्। इन्डिगो इत्यस्य मते चिकित्सादलः विमानस्थानके पूर्वमेव उपस्थितः आसीत्, परन्तु चिकित्सायाः पूर्वं तस्य मृत्युः अभवत्।

सप्ताहे आपत्कालविमानावरोहणस्य एषा तृतीया घटना अस्ति। पूर्वं मार्चमासस्य १६, १७ दिनाङ्कयो: इत्थमेव अभवत्, उभयत्र अपि यात्रिकः मृतः।

 

अद्यतनवार्ता

भारतम्

विश्वम्