Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गणेश बारैया अनेकानि कष्टानि अतिक्रम्य औन्नत्ये लघुत्तमः वैद्यः अभवत्। ३ फिट परिमित-उन्नत: गणेशः चिकित्सापरीक्षायां उत्तीर्णः अभवत् तथापि महाविद्यालये प्रवेशं न प्राप्तवान्। गणेशः उच्चन्यायालयं ततः सर्वोच्चन्यायालयं प्रति च प्रयासं कृतवान्, तत्र निर्णयः तस्य पक्षे आगत:। कृते प्रयत्ने किं न लभेत। अल्प-औन्नत्य-कारणात् पूर्वं चिकित्साशास्त्रे प्रवेशं प्राप्तुं गणेशेन अनेकानि कष्टानि सोढानि। प्रवेशपरीक्षायां सफलतां प्राप्य अपि तेन चिकित्सामहाविद्यालये प्रवेशः न प्राप्त:, परन्तु गणेशः प्रयत्नं न त्यक्तवान्। अन्ते सर्वोच्चन्यायालयपर्यन्तं युद्धं कृतवान्। तत्र सर्वोच्चन्यायालयेन अपि तस्य पक्षे निर्णयः कृतः।

अद्यतनवार्ता

भारतम्

विश्वम्