Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

तुर्कीदेशस्य राजधान्यां इस्तांबुलनगरे टलसिम-स्क्वायर इति स्थाने जाते विस्फोटे प्राप्तविवरणानुसारं षण्णां मृत्युः अभवत्। अधुना यावत् 53 जनाः आहताः इत्यपि वार्ता प्राप्ता। एतेन सम्बाधमार्गे नैके पदातिजनाः प्रभाविताः जाता:। स्थानीयसमयानुसारं विस्फोटोऽयं सायं 04:00 वादने अभवत्। विस्फोटकारणात् रक्षिताः सम्भ्रान्तजनाः अपसारिताः। मृतानां संख्या वर्धिता भवेत् इति सम्भावना अस्ति। विस्फोटस्य कारणम् इतोऽपि अज्ञातम् अस्ति।    

अद्यतनवार्ता

भारतम्

विश्वम्