Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

चतुर्णां राज्यानां निर्वाचनपरिणाम: अद्य उद्घोषित: अभवत्। अत्र मध्यप्रदेश-राजस्थान-छत्तीसगढराज्येषु भारतीयजनतादलेन विजय: प्राप्त: अस्ति। तेलङ्गाना राज्ये कोंग्रेसदलेन विजय: प्राप्त: अस्ति। विजयोत्सवे भाषमाणेन नरेन्द्रमोदिना विपक्षं लक्ष्यीकृत्य उक्तं यत् तादृशी राजनीति: न करणीया या देशविरोधिनी स्यात्। भारतीयजनतादल: केवलं न वदति, करोति अपि। मतदातार: नीरक्षीरविवेकिन: सन्ति। जनै: विकास: प्रमाणित: अस्ति। 

 

अद्यतनवार्ता

भारतम्

विश्वम्