Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

दिल्लीनगरे द्विदिनात्मिका भाजपा-राष्ट्रीयकार्यकारिसभा मङ्गलवासरे प्रधानमन्त्रिणः सम्बोधनेन समाप्ता। सभां सम्बोधयता प्रधानमन्त्रिणा उक्तम् यत् आगामिलोकसभानिर्वाचनाय केवलं ४०० दिवसाः अवशिष्टाः। एतस्यां परिस्थितौ पक्षस्य सर्वेऽपि पदाधिकारिणः, प्रत्येकं कार्यकर्ता च प्रत्येकं मतदातारं मेलितुं तेषां गृहं गच्छन्तु।

आगामिलोकसभां लक्ष्यीकृत्य पक्षाध्यक्षस्य कार्यकालः एकवर्षं यावत् विस्तारितः। नड्डा इत्यस्य कार्यकालः २० जनवरी दिनाङ्कपर्यन्तम् आसीत् । अधुना २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं सः भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षपदं धारयिष्यति। गृहमन्त्री अमितशाहः नड्डावर्यस्य कार्यकालविस्तारस्य घोषणां कृतवान् आसीत् । 

अद्यतनवार्ता

भारतम्

विश्वम्