Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

मई मासस्य षड् तमे दिनाङ्के गुजरातस्य अहमदाबादनगरे ए.एम.ए. इति संस्थाने भारतीयविदेशसेवायाः निवृत्ताधिकारिणः डॉ. गौरीशङ्करस्य Glimpses of Indian Heritage “ग्लिप्सीस् ओफ इन्डयन हिरिटेज” इति पुस्तकस्य लोकार्पणम् अभवत्। ओपन पेज इति संस्थायाः अन्तर्गतम् आयोजिते अस्मिन् कार्यक्रमे श्रीप्रफुलभाई शेठ, त्रिपदा एज्युकेशन न्यासस्य निदेशकः डॉ. अर्चितभट्ट:, आई.एम.सी.टी.एफ. इति संस्थायाः श्रीनारणभाई मेघाणी अपि च मुख्यातिथिरूपेण गुजरातसर्वकारस्य निवृत्तः सचीवः, गुजरातसाहित्याकादम्याः अध्यक्षः श्रीभाग्येशझा उपस्थिताः आसन्। 

संशोधनपरिपूर्णे पुस्तके‍‍ऽस्मिन् भारतीयसभ्यतायाः संस्कृतेः इतिहासस्य च यथायोग्यं वर्णनं कृतमस्ति। लेखकस्य कथनानुसारं पुस्तकमिदं निश्चयेन प्रत्येकं भारतीयस्य मनसि स्वदेशं प्रति गौरववर्धनं करिष्यति। मुख्यातिथिना भाग्येशझामहोदयेन उक्तं यत् यूनां कृते पुस्तकमिदं नितरां लाभप्रदं भविष्यति। कार्यक्रमेऽस्मिन् नगरस्य गणमान्याः जना: उपस्थिताः आसन्। कार्यक्रमस्य सञ्चालनं श्रीभाविनपाठकेन कृतम् आसीत्। 

अद्यतनवार्ता

भारतम्

विश्वम्