इजरायल-इरान्-देशयोः मध्ये प्रचलत: युद्धस्य मध्ये अमेरिकादेशः अपि युद्धक्षेत्रं प्रविष्टवान् अस्ति, मध्यपूर्वस्य वायुक्षेत्रं च निरुद्धम् अस्ति। अस्य कारणात् लन्दन्-नगरं प्रति ब्रिटिश-वायुसेवायाः विमानेन अस्मिन् रविवासरे (जून-मासस्य २२) प्रातःकाले चेन्नै-अन्तर्राष्ट्रीय-विमानस्थानकं प्रति आपत्कालीन-पुनरागमनं कर्तव्यम् अभवत्।
विमानसङ्ख्या BA276 चेन्नैतः प्रातः ६:२४ वादने उड्डीयत यत्र आहत्य २४७ यात्रिकाः १५ चालकदलस्य सदस्याः च आसन्। यदा विमानं बेङ्गलूरुनगरं लङ्घ्य अरबसागरस्य उपरि आसीत् तदा विमानचालकेन सूचना प्राप्ता यस्मिन् मध्यपूर्वस्य वायुक्षेत्रस्य प्रमुखाः भागाः निरुद्धाः इति सूचितम्। यस्मात् कारणात् ततः लन्दन-नगरं प्रति गन्तुं मार्गः अवरुद्धः अस्ति।