Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्य आरभ्य संसद: अर्थसङ्कल्पसत्रं प्रारब्धम् अस्ति। प्रथमवारं संसद: द्वयोः सदनयोः संयुक्तसमागमे राष्ट्रपतिद्रौपदी मुर्मू इत्यस्याः सम्बोधनम् अभवत्। ततः पूर्वं प्रधानमन्त्री मोदी प्रसारमाध्यमैः सह भाषितवान्। सदनस्य सदस्यान् सम्बोधयन् राष्ट्रपतिः द्रौपदी मुर्मू अवदत् यत् अद्य अस्मिन् सत्रे अहं देशवासिनां प्रति कृतज्ञतां प्रकटयामि, तैः क्रमशः द्विवारं स्थिरं सर्वकारं निर्वाचितम्। सर्वकारेण रणनीतौ पूर्णपरिवर्तनस्य इच्छां दर्शयन् राष्ट्रहितं सर्वदा सर्वोपरि एव स्थापितम्। तया उक्तं यत्-

  1. नूतनपरिस्थित्यानुसारं प्रधानमन्त्रीदीनकल्याण-अन्नयोजनां निरन्तरं कर्तुं सर्वकारेण निर्णयः कृतः। एतत् संवेदनशीलस्य, दीनहितकारिणः च सर्वकारस्य लक्षणम् अस्ति । 
  2. सर्वकारेण वर्षेभ्यः वञ्चितानां निर्धनानां, दलितानां वनवासिसमुदायानाम् इच्छापूर्तिं कृत्वा स्वसामर्थ्यं वर्धयितुम् अवसर: दत्तः।
  3. सर्वकारस्य प्राथमिकता देशस्य ११ कोटिः लघुकृषकाः सन्ति। एते लघुकृषकाः दशकैः सर्वकारीयप्राथमिकतातः वञ्चिताः आसन् । अधुना तेषां सुदृढीकरणाय, समृद्धीकरणाय च सर्वप्रयत्नाः क्रियन्ते।
  4. २०४७ तमवर्षपर्यन्तं अस्माभिः एकं राष्ट्रं निर्मातव्यं यत् अतीतस्य वैभवेन सह सम्बद्धं भविष्यति यस्मिन् आधुनिकतायाः सर्वेऽपि सुवर्णाध्याः भवेयुः।
  5. अस्माभिः तादृशस्य भारतस्य निर्माणं करणीयमस्ति यत् आत्मनिर्भरं स्यात् अपि च मानवीयकर्तव्यानि निर्वहितुं समर्थं स्यात्।
  6. प्रायः नववर्षेभ्यः परं प्रथमवारं भारतस्य जनानां कृते अनेकानि सुयोग्यपरिवर्तनानि सर्वकारेण दृष्टानि। बृहत्तमं परिवर्तनम् अस्ति यत् अद्य प्रत्येकं भारतीयस्य आत्मविश्वासः उन्नततमस्थाने अस्ति तथा च भारतस्य विषये विश्वस्य दृष्टिः परिवर्तिता अस्ति।
  7. अमृतकालस्य अयं २५ वर्षाणाम् कालखण्डः, स्वातन्त्र्यस्य सुवर्णशतकं, विकसितभारतस्य निर्माणस्य च कालखण्डः अस्ति। एतानि २५ वर्षाणि अस्माकं सर्वेषां कृते देशस्य प्रत्येकं नागरिकस्य च कृते कर्तव्यपराकाष्ठां दर्शयितुम् अस्ति।
  8. आयुष्मान्-भारतयोजनया देशस्य कोटिशः निर्धनानाम् ८० सहस्रकोटि रुप्यकाणि रक्षितानि सन्ति। ७ दशकेषु देशस्य प्रायः सपादत्रिकोटिगृहेषु जलव्यव्यस्था सम्भविता । जलजीवनमिशन-अन्तर्गतं त्रिषु वर्षेषु एव ११ कोटिगृहेषु नलिकया जलं प्राप्तम् अस्ति।
  9. सर्जीकल-स्ट्राइक तः आरभ्य आतङ्कवादस्य कठोरदमनपर्यन्तं, LoC तः LAC पर्यन्तं प्रत्येकं कुचेष्टायाः प्रतिक्रिया भारतेन सुदृढतया दत्ता। अनुच्छेदस्य ३७० धारातः आरभ्य त्रिपल-तलाकपर्यन्तं सर्वकारः निर्णायकः सर्वकारः इति प्रसिद्धः अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्