Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारते पृथिवी माता अपि च चन्द्र: मातुल: कथ्यते। मातुलस्य चन्द्रस्य उपरि नैकानि बालगीतानि स्थानिकभाषासु अपि उपलभ्यन्ते। पौराणिकस्त्रोत्रे अपि उक्तं यत् क्षीरोदार्णव संभवम् अर्थात् क्षीरसागरात् अस्य उत्पत्ति: अस्ति। एतेन ज्ञायते यत् पृथिव्या: चन्द्रेण सह कोऽपि सम्बन्ध: तु अस्त्येव। भ्रातृ-भगिन्या: पवित्रसम्बन्धस्य उत्सव: अर्थात् रक्षाबन्धनम्। अद्य रक्षाबन्धनात् पूर्वमेव मातु: पृथिव्या: वैज्ञानिकपुत्रै: विक्रमं स्थापयित्वा प्रज्ञाननामकं रक्षासूत्रं मातुलाय चन्द्राय अर्पितम्। केनापि चित्रकारेण रचितं अद्भूतं चित्रम् अत्र प्रदीयते।

अद्यतनवार्ता

भारतम्

विश्वम्