Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पीएमएलए न्यायालयेन दिल्ली मद्यनीतिप्रकरणे ३ घण्टानां श्रवणप्रक्रियां कृत्वा निर्णयः आरक्षितः स्थापित: अस्ति। ततः पूर्वं शुक्रवासरे अपराह्णे २ वादने राउस् एवेन्यू न्यायालये केजरीवालः प्रस्तुतः। अपराह्णे २.१५ वादने आरब्धा पृच्छा अपराह्णे ५.१५ वादनपर्यन्तं चलिता । इदानीं ईडीद्वारा १० दिवसस्य अधिकग्रहणं याचितम् । एतेन सह स: प्रकरणस्यास्य मुख्यसूत्रधार: इति आक्षेपितम् । प्रकरणसम्बद्धाः बहुविधाः इलेक्ट्रॉनिकसाक्ष्याः नष्टाः इति अपि प्रतिपादितमस्ति । अनेके दूरभाषाः भग्नाः सन्ति। दिल्लीनगरस्य मद्यनीतिनिर्माणे केजरीवालः प्रत्यक्षतया संलग्नः आसीत् । प्रथमवारं १० कोटिरूप्यकाणि ततः १५ कोटिरूप्यकाणां रोकधनं स्थानान्तरितम्। । केजरीवालः पञ्जाब-गोवा-निर्वाचनाय धनं इच्छति स्म । गोवानिर्वाचने ४५ कोटिरूप्यकाणां उपयोगः अभवत् ।

अद्यतनवार्ता

भारतम्

विश्वम्