Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

देशस्य अधिकांशेषु भागेषु शिशिरः वर्धमानः अस्ति । ऋतुविज्ञानविभागानुसारं पश्चिमराजस्थानं, दिल्ली, पञ्जाब, हरियाणा, चण्डीगढ चेति स्थानेश सतर्कता उद्घोषिता अस्ति। आगामिषु पञ्चदिनेषु विमानयानानां, रेलयानानां च विलम्बस्य च सम्भावना अस्ति ।  ऋतुविज्ञानविभागानुसारं अनुसारं ३१ दिसम्बर् तः ४ जनवरीपर्यन्तं एतेषु राज्येषु अनेकेषु भागेषु ऋतोः शीतलतमदिनानि भवितुम् अर्हन्ति । अत्र तापमानं शुन्यादपि अधः गन्तुं शक्नोति।

तस्मिन् एव काले दिल्ली-राजस्थान-पश्चिम-यूपी-देशेषु रात्रौ तापमानं १ तः ४ डिग्रीपर्यन्तं भविष्यति । अपरपक्षे मध्यप्रदेशे २८, २९ दिसम्बर् दिनाङ्केषु अत्यन्तं शीतलं भविष्यति, परन्तु तदनन्तरं वातावरणं सामान्यं भवितुम् अर्हति। 

अद्यतनवार्ता

भारतम्

विश्वम्