Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

देशे पुनः एकवारं कोरोनारोगिणां संख्या वर्धमाना अस्ति। विगत २४ घण्टासु देशे ६०५० नूतनाः रोगिणः ज्ञाताः, १४ जनाः मृताः । सक्रियप्रकरणानाम् सङ्ख्या अपि २८,३०३ यावत् वर्धिता अस्ति। विषयेऽस्मिन् स्वास्थ्यमन्त्री मनसुखमाण्डविया शुक्रवासरे राज्य-सङ्घप्रदेशैः सह समीक्षाचर्चां कृतवान् अस्ति। तेनोक्तम् -”अस्य मासस्य दशमे एकादशे च दिनाङ्के सर्वेषु चिकित्सालयेषु आपत्कालीनपरिस्थितिनिमित्तं समीक्षा करणीया। अपि च चिकित्सालयानां आधाभूतसंरचनायां  यदि संशोधनस्य आवश्यकता अस्ति चेत् तस्य निराकरणं करणीयम्। एतदतिरिक्तं कोरोनासम्बद्धानां नियमानाम् अनुसरणं कठोररूपेण करणीयं कारणीयम् च। अस्माकं सतर्कता आवश्यकी, भयः मास्तु।” इति।

अद्यतनवार्ता

भारतम्

विश्वम्